शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाहः॑ कृणवाव॒ जुष्ट॑म् ।
एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥
शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् ।
आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥
शंसिष्यन् होताध्वर्युं ब्रूते । हे अध्वर्यो आवां शंसाव । होतस्त्वमेव शंससि । कथमहं शंसानि । अत आह । प्रति मे गृणीहीति । त्वं मे प्रतिगृणीहि । ओथामोदैवेत्यादिको होतुरुत्साहजननः प्रतिगरः । आ. ७-११ । तं दत्स्व । तथेन्द्राय जुष्टं प्रीतियुक्तं वाहः स्तोत्रं कृणवाव । त्वं यजमानस्येदं बर्हिरस्मिन्बर्हिष्या सीद । उपविश । अथ चानन्तरमिन्द्रायेन्द्रार्थमावाभ्यां क्रियमाणमुक्थं शस्त्रं शस्तं प्रशस्तं भूत् । भवतु । शंसाव । शन्सु स्तुतावित्यस्य लोट्युत्तमद्विवचने रूपम् । आडुत्तमस्येत्याडगमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः मे । अनुप्रतिगृणश्च । पा. १-४-४१ । इति सम्प्रदान संज्ञा । जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वं ॥ ३ ॥