अपा॒ः सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ ।
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥
अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ ।
यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥
हे इन्द्र सोममपाः । अत्रैव स्थित्वा सोमं पिब । पीत्वास्तं गृहं प्रयाहि । प्रकर्षेण गच्छ । ते तव गृहे कल्याणिर्मङ्गलकारिणी जाया शची विद्यते । सुरणं शोभनगीतादिध्वनिश्चास्ति । यद्वा । सुरणं सुरमणीयं यथा भवति तथा गृहे याया तिष्ठति । यत्रेत्यादि गतम् । दक्षिणावत् । अत्र स्थितौ सत्यां रथे योजितानां वाजिनां विमोचनं खादनपानदिना दक्षिणावत् प्रयोजनवद्भवति । विमुक्तेभ्यो वाजिभ्यो खादनं पानं चोपहरन्ति । अपाः । पा पाने । लुङि गातिस्थेति सिचो लुक् । अडागमस्वरः । कल्याणीः । कल्यानमस्यास्तिति मत्वर्थे छन्दसीवनिपाविति ई प्रत्ययः । प्रत्ययस्वरः । सुरणम् । रण शब्दार्थः । आस्माअदकृच्छ्रार्थे खल् । लित्स्वरः । प्रत्ययस्य पित्त्वादनुदात्त्वे धातुस्वरः । समासे कृदुत्तरपदस्वरः ॥ ६ ॥