अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
यु॒योत॑ नो अनप॒त्यानि॒ गन्तो॑ः प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥
अ॒र्य॒मा । नः॒ । अदि॑तिः । य॒ज्ञिया॑सः । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ ।
यु॒योत॑ । नः॒ । अ॒न॒प॒त्यानि॑ । गन्तोः॑ । प्र॒जाऽवा॑न् । नः॒ । प॒शु॒ऽमान् । अ॒स्तु॒ । गा॒तुः ॥
अर्यमा । ऋच्छति सर्वदा गच्छतीत्यर्यमा सूर्यः । अदितिर्देवमाता यज्ञियासो यज्ञार्हा देवा यस्य वरुणस्य व्रतानि कर्मण्यदब्धान्यहिंसितानि भवन्ति स वरुणस्ते चार्यमादयो देवा नोऽस्मान्रक्शन्त्विति शेशः । ते यूयं नोऽस्माकमनपत्यान्यपत्यानां पुत्राणामहितानि कर्माणि । यद्वा । पतनकारणं न भवतीत्यपत्यम् । तदन्यान्यनपत्यानि पतनकारणानि कर्माणि गन्तोः सन्मार्गाद्युयोत । पृथक्कुरुत । यथा तान्यहितानि कर्माणि न स्पृशन्ति तथा कुरुतेत्यर्थः । अथ गातुः । गायन्ति स्तुवन्तीन्द्रादीनत्रेति गातुर्गृहम् । नोऽस्मदीयं गृहं पशुमान्पश्वादियुक्तं प्रजावानपत्योपेतमस्तु । अर्यमा । ऋ गतौ । श्वन्नुक्षन्प्लीहन्क्लेदन्नित्यादिना निपातनाद्रूपसिद्धिः । अदितिः । दीङ् क्षय इत्यस्य कर्तरि क्तिच् । न ञा समासः । अदितिरदीनेति यास्कः । छान्दसं ह्रस्वत्वम् । नञः स्वरः । युयोत । यौतेरमिश्रीभावकर्मणो लोटि बहुलं छन्दसीति शप श्लुः । तप्तनबिति तप्रत्ययस्य तबादेशः । गन्तोः । गम्लृ गतौ । सितनिगमिमसिसच्यविधाञ् क्रुशिभ्य इति तुन्प्रत्ययः । नित्त्वादाद्युदात्तः । तातुः । गापाहिभ्यश्चेति तुप्रत्ययः ॥ १८ ॥