शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।
अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् ।
अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
अन्तमस्य समीपे वर्तमानस्य दावाग्नेरायदभिमुखमागच्छद्विश्वं भूतजातं प्रतिचेनं पराङ्मुखं ददृशे । दृश्यते । तत्र दृष्टान्तः । शूरस्येव । यथा युध्यतो युद्धं कुर्वानस्य शूरस्य समर्थस्य राज्ञोऽभिमुखमागच्छत्परबलं पराङ्मुखं दृश्यते तद्वत् । मतिः सर्वैर्ज्ञायमानः सोऽग्निर्गोरुदकस्य निश्षिधं हिंसिकां दीप्तिमन्तश्चरति । अन्तर्धारयति । युध्यतः । युध संप्रहारे । दिवादिः । तस्य शतरि रूपम् । अन्तमस्य । अन्तशब्दादत इनिठनाविति ठन् । अतिशयेनान्तिक इत्यर्थे तमप् । तमे तादेश्चेति तादिलोपः । नित्त्वादाद्युदात्तः । प्रतीचीनम् । प्रतिपुर्वस्याञ्चतेः क्विन् । तस्माद्विभाषाञ्चेरदिक् स्त्रियामिति खः । ईनादेशः । प्रत्ययस्वरः । आयत् । या प्रापण इत्यस्माङ् पूर्वस्य शतरि रूपं आङ् पुर्वस्य अय पय गतावित्यस्य शरति रूपं वेति व्युत्पत्त्यनवधारणादनवग्रहः ॥ ८ ॥