त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥
त्री । स॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् ।
ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥
प्रजापतिः स्वविज्ञानं सिन्धूनां निवेदयति । हे सिन्धव आपः सर्वसाक्षिण्यो यूयम् । त्री षधस्था त्रयो लोकाः । ते च प्रत्येकं त्रिर्भवन्ति । तथा त्रयो वा इमे त्रिवृतो लोका इति श्रुतिः । न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणं न विव्यचन्त भूमयः । ऋग्वे. ८-६-१५ । इति प्रत्येकं बहुवचनश्रवणात् । बहुवचनं च कपिञ्जलन्यायेन त्रित्वे पर्यवसितम् । ते च लोकाः कवीनां देवानां निवासस्थानानि भवन्ति । उतापि च त्रिमाता त्रयाणामिमीशां लोकानां निर्माता संवत्सरः सूर्यो वा विदथेषु यज्ञेषु सम्राट् यजनीयतया सम्यग्दीप्यमानो वर्तते । तथा ऋतावरीरुदकवत्योऽप्या नभ्स्या आप्तव्या वा तिस्रो योषणास्त्रिसंख्याका इलासरस्वतीभारतीत्येवं रूपाः परस्परमिश्रणोपेता देवता विदथे यज्ञे दिवो दिवसस्य तिस्त्रिषु सवनेष्वा पत्यमाना आगच्छन्त्यो भवन्ति ॥ सधस्था । पूर्वपदादिति संहितायां षत्वम् । योषणाः । युष इति सौत्रो धातुः । ल्युटि रूपम् । लित्स्वरः । तिस्रः । तिसृभ्यो जस इत्याद्युदात्तत्वम् । अप्याः । अप् इत्यन्तरिक्षनाम । तत्र भवाः । भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ ५ ॥