मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् १

संहिता

प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् ।
स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥

पदपाठः

प्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् ।
स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥

सायणभाष्यम्

प्रमे विविक्वानिति षडृचं चतुर्थं सूक्तम् । विश्वामित्र ऋषिः । त्रिष्टप् छन्दः । विश्वेदेवा देवता । अत्रानुक्रमणिका । प्र मे षळिति । सूक्तविनियोगो लैङ्गिकः ॥

विविक्वान्विवेकवानिन्द्रोऽगिन्र्वा मे मम मनीशां देवताविषयां स्तुतिं प्राविदत् । प्रकर्षेण जानातु । तत्र दृष्टान्तः । चरन्तीं यवस इतस्ततो गच्छन्तीं प्रयुतां पृथग्भूतामेकाकिनीमगोपां गोप्तृरहितां यथाकामं चरन्तिं धेनुं नवसूतिकां गामिव देवतानां प्रीणयित्रीं स्तुतिमविददित्यन्वयः । या स्तुतिरूपा धेनुः सद्यश्चित्तदानीमेव धासेः । धारयति प्राणान् धीयते दीयतेऽर्थिभ्य इति वा धासिरन्नम् । कर्मणि षष्ठी । भूर बह्वन्नमपेक्षितं फलं दुदुहे दुग्धे इन्द्रोऽग्निरन्ये च देवा अस्याः स्तुतिरूपाया धेनोस्तत्तस्यान्नभूतस्य पयसः पनितारः स्तोतारो भवन्ति । यद्वा । इन्द्राग्नी स्तोतारो वयं चास्या धेनोस्तत्पयः प्राप्नुमः । विविक्वान् । विचिर् पृथग्भाव इत्यस्य क्वसौ रूपम् । अविदत् । विदज्ञान इत्यस्य लङि बहुलं छन्दसीति शः । दुदुहे । दुह प्रपूरण इत्यस्य लिटि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । पनितारः । पन स्तुतावित्यस्य तृचि रूपम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः