मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् ३

संहिता

सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ ।
अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु ।
तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥

पदपाठः

सखे॑ । सखा॑यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या॑ऽइव । रंह्या॑ । अ॒स्मभ्य॑म् । द॒स्म॒ । रंह्या॑ ।
अग्ने॑ । मृ॒ळी॒कम् । वरु॑णे । सचा॑ । वि॒दः॒ । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ।
तो॒काय॑ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य॑म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥

सायणभाष्यम्

प्रवर्ग्येऽभिष्टव उत्तरस्मिन्पटले सखे सखायमित्येषा । सूत्रितं च । सखे सखायमभ्या ववृत्स्वोर्ध्व ऊ षु ण ऊतये । आ. ४-७ । इति ॥

सखे सखिभूत दस्म दर्शनीय हे अग्ने त्वं तव सखायं वरुणमस्मभ्यमस्मदर्थमा ववृत्स्व । अभिमुखीकुरु । तत्र दृष्टान्तः । रंह्या रंहणे गमने साधुभूतौ रथ्येव रथे योजितावश्वौ यथांशु शीघ्रगंतृ चक्रं लक्ष्यदेशं प्रत्यभिमुखीकुरुतस्तद्वत् । हे अग्ने सचा तव सहाये वरुणे मृळीकं सुखकरं हविर्विदः । लब्धवानसि । तथा विश्वभानुषु सर्वतो व्याप्ततेजस्केषु मरुत्सु सुखकरं लब्धवानसि । अग्निवारुणाग्निमारुतयोः कर्मणोरिष्टवानसीत्यर्थः । शुशुचान दीप्यमान हे अग्ने तोकाय । तुज्यते पीड्यतेऽनेन माता गर्भवासेनेति तोकं पुत्रः । तस्मै तुजे । गच्छत्यनेनानृण्यं पितेति तुक् पौत्रः । तस्मैशं सुखं कृधि । कुरु । दस्मदर्शनीय हे अग्ने असभ्यं शं कृधि । सुखं कुरु । रथ्येव । रथस्येमावित्यर्थे रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । रंह्या । रंहशब्दात्तत्र साधुरिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२