स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ।
अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥
सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या॑सु । म॒हः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ।
अ॒पात् । अ॒शी॒र्षा । गु॒हमा॑नः । अन्ता॑ । आ॒ऽयोयु॑वानः । वृ॒ष॒भस्य॑ । नी॒ळे ॥
सोऽग्निः प्रथम आहवनीयादिरूपतया श्रेष्ठः सन् पस्त्यासु यजमानानां गृहेषु जायत । आहुत्यधिकरणतया संपत्यते । तथा महो महतोऽस्य रजसोऽन्तरिक्षस्य बुध्ने मूले पृथिव्यां तत्रापि योनावुत्तरवेद्यादिस्थाने सम्पद्यते । सोऽग्निरपात्पादवर्जितोऽशीर्षा शिरोवर्जितः । तदेवाह । अन्ताद्यन्ते पादशिरसी गुहमानो गूहमानः । अविज्ञेयपादशिरा इत्यर्थः । वृषभस्य वर्षनसमर्थ्यस्य मेघस्य नीळे निलये नभस्यायोयुवानो धूमाकारेणात्मानमायोजयन्वर्तते यद्वा । यः प्रथमो वैद्युतोऽग्निः पस्त्यादिषु नदीषु बध्नेऽन्तरिक्षे महो महतो रजस उदकस्य तेजसो वा योनौ स्थाने च चरति । अपादशीर्षा पादशिरोवर्जितोऽन्तात्मनः पर्यन्तप्रदेशान् स्वतेजसा गुहमान आच्छादयन् पुनश्चायोयुवानस्तानि तेजांसि स्वात्मनि मिश्रीकुर्वन्वृषभस्य मेघस्य नीळे स्थाने नभसि चरति सोऽग्निरधुना कर्मयोग्यतयाजायत । अपात् । पादस्य लोपोऽहस्त्यादिभ्यः इत्यकारलोपः समासान्तः । गुहमानः । गुहू सम्वरणे । शविकरणी । शानच रूपम् । शानचो लसार्वधातुकस्वरे कृते प्रत्ययस्वरः । आयोयुवानः । यु मिश्रणे । यङ् लुकि शानचि रूपम् । अभ्यस्तस्वरेणाद्युदात्तः ॥ ११ ॥