अधा॑ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् ।
दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चन्त॑ः ॥
अध॑ । मा॒तुः । उ॒षसः॑ । स॒प्त । विप्राः॑ । जाये॑महि । प्र॒थ॒माः । वे॒धसः॑ । नॄन् ।
दि॒वः । पु॒त्राः । अङ्गि॑रसः । भ॒वे॒म॒ । अद्रि॑म् । रु॒जे॒म॒ । ध॒निन॑म् । शु॒चन्तः॑ ॥
वामदेवोऽन्यैः षड्भिरङ्गिरोभिः सह ब्रूते । अधापि च मातुरुषसः सकाशात्सप्त सप्तसंख्याका विप्राः प्राज्ञा वयं स्मः । प्रथमाः श्रेष्ठा वयं वेधसोऽग्नेः परिचारकान्नॄन् वेधसो विधातृन् रश्मीन् वा जायेमहि । वयं जनयामः । दिवो द्योतमानस्यादित्यस्य पुत्रा वयमङ्गिरसो भवेम । भूतिमन्तः स्याम । शुचन्तो दीप्यमाना वयं धनिनमुदकवन्तमद्रिं मेघं रुजेम । वर्षार्थं भिन्द्याम । यद्वा । धनिनं पणिनामकासुरापहृतगोधनयुक्तमद्रिं पर्वतं रुजेम । अङ्गिरसामादित्यपुत्रत्वमेवमाम्नायते । तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवदित्युपक्रम्य येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ऐ. ब्रा. ३-३४ । इति । जायेमहि । जनी प्रादुर्भावे । लिङि ज्ञाजनोर्जेति जादेशः । वेधसः । डुधाञ् धारणपोषणयोरित्यस्माद्विधाञो वेध च । उ. ४-२२४ । इत्यसि प्रत्ययः । धातोर्वेध इत्यादेशः । दिवस्पुत्रा इत्यत्र संहितायां षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । रुजेम । रुजो भङ्गे । अदादिः । लिञि रूपं ॥ १५ ॥