प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥
प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः ।
यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥
हे अग्ने तूर्णितमस्त्वरिततमस्त्वं स्पशः परबाधकान्रश्मीन् चारान्वा सत्यानृतविवेकार्थं वि सृज । शत्रून्प्रति विशेषेण प्रेरय । अदब्धः केनाप्यहिंसितस्त्वमस्यास्त्वदीयाया विशोऽस्मदादिकायाः प्रजायाः पायुः पालको भव । कस्मात्तद्रक्षण मित्यपेक्शायामाह । नोऽस्माकं दूरे योऽघशंसः । अघं पापात्मकं संशनमभिलाषः कीर्तनं वा यस्य सोऽघशंसः । यश्चाघशंसोऽन्त्यस्माकं समीपे तिष्ठति तस्मादुभयविधाच्छत्रोः पालको भव । किञ्च ते त्वत्संबन्धिनोऽस्मान्माकिर्न कश्चिदपि व्यथिर्बाधको राक्ष आ दधर्षीत् । आधर्षयतु । अस्माकं कश्चिदपि परिभवं मा करोत्वित्यर्थः । अन्ति । अन्तिकस्य कादिलोप आद्युदात्तत्वं च । अग्नेः । पादादित्वात्षाष्ठिकमाद्युदात्तत्वम् । माकिष्ट इति संहितायां युष्मत्तत्ततक्शुः ष्वन्तः पादमिति षत्वम् । दधर्षीत् । धृष प्रसहने । लङि बहुलं छन्दसीति शपः श्लुः । बहुलं छन्दसीति तिप ईडागमः । निघातः ॥ ३ ॥