मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ७

संहिता

तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः ।
स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥

पदपाठः

तम् । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नम् । अ॒भि । क्रत्वा॑ । पु॒न॒ती । धी॒तिः । अ॒श्याः॒ ।
स॒सस्य॑ । चर्म॑न् । अधि॑ । चारु॑ । पृश्नेः॑ । अग्ने॑ । रु॒पः । अरु॑पितम् । जबा॑रु ॥

सायणभाष्यम्

अग्निविद्युदादित्यास्त्रयोऽपि मतभेदेन वैश्वानरशब्दाभिधेया इति । नि. ७-२३ । यस्केनोक्तत्वादत्रादित्यात्मना वैश्वानरः स्तूयते । तमित्तमेव वैश्वानरं द्युस्थानं समानं सर्वेशामेकरूपं समना सदृशी तद्योग्या पुनत्यस्मान् शोधयित्री धीतिर्मतिरस्मदीया स्तुतिः क्रत्वा तदुचीतेन कर्मणा न्वेन क्षिप्रमेवाश्याः अभिप्राप्नुयात् । भजेदित्यर्थः अश्नोतेर्लिङि बहुलं छन्दसीति विकरणस्य लुक् । व्यत्ययेन परस्मै पदं मध्यमपुरुषत्वं च । पूर्वत्र तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । यस्य द्युस्थानस्य वैश्वानरस्य जबारु जवमानरोहि जरमाणरोहि वा चारु दीप्तं मण्दलम् । जबारु जरमाणरोहीति वा जवमानरोहीति वेति यास्कः । नो. ६-१७ । अग्रे पुरस्तात्पुर्वस्यां दिशि रूपः । आरोपयति स्वात्मनि सस्यादीनि रुबिति भूमिरुच्यते । तस्याः सकाशात्ससस्य । लुप्तोपममेतत् । स्वपत इव निश्चलस्य पृश्नेः । द्युनामैतत् स्वः पृश्निरिति द्युलोकादित्ययोः साधारणनामसु पाठात् । ज्योतिरादिभिः स्पृश्यमानस्य द्युलोकस्याधि उपरि चर्मन् चर्मणे चरणाय । चरेरौणादिको मनिन् । सुपां सुलुगिति चतुर्थ्या लुक् । आरुपितमारोपितं देवैः तमश्या इति पूर्वत्रान्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः