अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः ।
होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिज॒ः शंस॑मा॒योः ॥
अका॑रि । ब्रह्म॑ । स॒म्ऽइ॒धा॒न॒ । तुभ्य॑म् । शंसा॑ति । उ॒क्थम् । यज॑ते । वि । ऊं॒ इति॑ । धाः॒ ।
होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । न॒म॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥
हे समिधान समिध्यमानाग्ने तुभ्यं त्वदर्थं ब्रह्म स्तोत्रमकारि । अस्माभिः कृतम् । होतोक्थं शस्त्ररूपं स्तोत्रं शंसाति । शंसति । शन्सु स्तुतौ । लेटोऽडाटावित्याडगमः । त्वां यजमानो यजते । अतः कारणादस्मभ्यं धनं वि धाः । विधेहि । दधातेश्छान्दसे लुङि बहुलं छन्दसीत्यडभावः । उ इति पादपुरणः । किञ्च आयोर्मनुष्यस्य शंसं शंसनीयं होतारं देवानामाह्वातारमग्निं त्वां नमस्यन्तः पूजयन्त उशिजः पश्वादिलक्षणं धनं कामयमाना मनुषो मनुष्या ऋत्विजो नि षेदुः । उपाविशन् । सेवन्त इत्यर्थः ॥ ११ ॥