प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः ।
आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥
प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः ।
आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥
प्रत्यग्निरुष इति पञ्चर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं मान्त्रवर्णिकदैवतं वा । तथा चानुक्रान्तम् । प्रत्यग्निरिति । लिङ्गोक्तदैवतं त्विति तुशब्दादस्यापि सूक्तस्य लिङ्गोक्तदैवतत्वं ॥ विनियोगो लैङ्गिकः ॥
देवो द्योतमानो जातवेदा जातधनोऽग्निर्महोभिस्तेजोभी रोचमाना दीप्यमाना उषसः प्रत्युषसो लक्षीकृत्याख्यत् । प्रवृद्धो भवति । उरुगाया प्रभूतगमनौ हे नासत्याश्विनौ रथेन नोऽस्मदीयमिमं यज्ञमच्छाभिमुखमुप यातम् । उपगच्छतं ॥ १ ॥