स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तो॑ः ।
अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥
स्वः॑ । यत् । वेदि॑ । सु॒ऽदृशी॑कम् । अ॒र्कैः । महि॑ । ज्योतिः॑ । रु॒रु॒चुः॒ । यत् । ह॒ । वस्तोः॑ ।
अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ । नृऽभ्यः॑ । च॒का॒र॒ । नृऽत॑मः । अ॒भिष्टौ॑ ॥
यद्ध यदा खलु महि महत्प्रभूतं ज्योतिस्तेजोरूपं यत्स्वर्योद्युलोकोऽर्कै रश्मिभिः सुदृशीकं सुष्ठु दर्शनीयं वेदि । अवेदि । ज्ञायते । तदानीं देवास्तस्मिन् स्वर्गे वस्तोर्निवासार्थं रुरुचुः । दीप्तियुक्ता बभूवुः । नृतमि नेतृतमः सूर्योऽभिष्टावभ्यागमने नृभ्यो नॄणां विचक्षे विशेषेण दर्शनायान्धान्धकाररूपाणि निविडानि तमांसि दुधिता दुधितानि नाशितानि चकार । कृतवान् ॥ ४ ॥