अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् ।
ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥
अच्छ॑ । क॒विम् । नृ॒ऽम॒नः॒ । गाः॒ । अ॒भिष्टौ॑ । स्वः॑ऽसाता । म॒घ॒ऽव॒न् । नाध॑मानम् ।
ऊ॒तिऽभिः॑ । तम् । इ॒ष॒णः॒ । द्यु॒म्नऽहू॑तौ । नि । मा॒याऽवा॑न् । अब्र॑ह्मा । दस्युः॑ । अ॒र्त॒ ॥
हे मघवन्धनवन्निन्द्र नृमणः । नृभिर्मनुष्यैर्मन्यत इति नृमनः । त्वं कविं मेधाविनं कुत्समच्छगाः । अभ्यगाः । किञ्च स्वर्षाता । स्वर्धनम् । तस्य सातौ दाने निमित्तेऽभिष्टौ कवेरभिगमे सति नाधमानं युद्धार्थं त्वां याचमानं कुत्समूतिभिः शत्रुकृतोपद्रवपरिहाररूपै रक्षणैरिषनः । प्रेरितवानसि । मायावान् कपटवानब्रह्मा । ऋत्विग्भिः क्रियमाणं सर्वं कर्मजातमनुज्ञारूपेण् जानन् ऋत्विग्विशेशो ब्रह्मशब्देनोच्यते । स न विद्यते यस्य सोऽब्रह्मा । वेदोक्तकर्मस्वास्तिक्यरहित इत्यर्थः । दस्युः कुत्सस्य शत्रुर्द्युम्नहूतौ द्युम्नं धनं हूतिराह्वानं यस्यां युधि तस्यां न्यर्त । विनष्टो बभूव । इन्द्रः कुत्सेनाहुतः सन् तस्य शत्रुं हतवानित्यर्थः ॥ ९ ॥