य इन्द्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः ।
प्रति॑ मना॒योरु॒चथा॑नि॒ हर्य॒न्तस्मि॑न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्र॑ः ॥
यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः ।
प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । द॒ध॒त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥
आद्यास्मिन्दिवसे यो यजमान इन्द्राय परमैश्वर्ययुक्ताय देवाय सोमं सोमलक्षणमन्नं सुनवत् सुनयात् अभिषवं कुर्यात् । तथा यः पक्तीः पक्तव्यांश्च पुरोडाशादीन्पचात् पचेत् पचनं कुर्यात् । उतापि च यो धाना भर्जनयोग्यान्यवान् । अत्र भृष्टयववाची धानाशब्दस्तद्योग्यं यवमात्रं लक्षयति । भृज्जाति घृज्जेत् भर्जनं कुर्यात् । इन्द्रो मनायोः स्तुतिमिच्छतो यजमानस्योचथानि स्तोत्राणि प्रति हर्यन् प्रतिकामयमानः सन् तस्मिन्यजमाने वृषणं कामानां वर्षणसमर्थं शुष्मं बलं दधत् । धारयति ॥ ७ ॥