मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २७, ऋक् १

संहिता

गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।
श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥

पदपाठः

गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ ।
श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥

सायणभाष्यम्

गर्भे न्विति पञ्चर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । अन्त्याशक्वरी षट् पञ्चाशदक्षरा । स्येनो देवता । पूर्वसूक्तेऽष्टौ वेत्युक्तत्वादन्त्याया इन्द्रो वा देवता । तथा चानुक्रान्तम् । गर्घे नु पञ्चान्त्या शक्वरीति । स्येने निष्केवल्यशस्त्रं इदं सूक्तम् । सूत्रं तु पूर्वमुदाहृतं ॥

अत्रैष श्लोकः पथ्यते । श्येनभावं समास्थाय गर्भाद्योगेन निःसृतः । ऋषिर्गर्भे शयानः सन् ब्रूते गर्भे नु सन्निति । गर्भे नु गर्भ एव सन् विद्यमानोऽहं वामदेव एषामिन्द्रादीनां देवानां विश्वा विश्वानि सर्वाणि जनिमानि जन्मान्यन्ववेदम् । आनुपूर्व्येणाज्ञासिषम् । परमात्मनः सकाशात्सर्वे देवा जाता इत्यवेदिषमित्यर्थः । इतः पूर्वं शतं बहून्यायसीरयोमयान्यभेद्यानि पुरः शरीराणि मा मामरक्षन् । अपालयन् । यथाहं शरीराद्व्यतिरिक्तमात्मानं न जानीयां तथा मामरक्षन्नित्यर्थः । अधाधुना श्येनः श्येनवत्स्थितोऽहं जवसा वेगेन निरदीयम् । शरीरान्निरगमम् । अनावरणमात्मानं जानन्निर्गतोऽस्मीत्यर्थः । पुरुशे ह वा अयमादित इति खण्डे गर्भ एवैतच्छयानो वामदेव एवमुवाचेत्यादिना । ऐ. आ. २-५-१ । अयमर्थः सम्यक् प्रतिपादितः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६