रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥
रा॒या । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ ।
ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥
राया धनेन मदेम ससवांसो युवां सम्भक्तारो वयम् । हव्येन देवा मोदन्तु यवसेन च गावः । तां धेनुं प्रीणयित्रीं रयिं हे इन्द्रा वरुणौ विश्वाहा विश्वस्य हन्तारौ युवं युवां नोऽस्माकं धत्तम् । दत्तम् । कीदृशीम् । अनपस्फुरन्तीमनवहिंसिताम् । यद्वा । विश्वाहेत्यव्ययम् । सर्वदेत्यर्थः ॥ १० ॥