अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
त्वं हि पू॑र्व॒पा असि॑ ॥
अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । वा॒यो॒ इति॑ । दिवि॑ष्टिषु ।
त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥
पञ्चमेऽनुवाके त्रयोदश सूक्तानि । तत्राग्रं पिबेति सप्तर्चं प्रथमं सूक्तं वामदेवस्यार्षं गायत्रम् । कृत्स्नमिन्द्रवायुदेवताकमाद्या केवलवायव्या । तथा चानुक्रान्तम् । अग्रं वायव्याद्यैन्द्रवायवं तु गायत्रमिति । सूक्तविनियोगो लैङ्गिकः । आद्ये द्वे ऐन्द्रवायवग्रहस्य याज्ये । तथा च सूत्रितं अग्रं पिबा मधूनामिति याज्ये अनवानम् । आ. ५-५- । इति ॥
हे वायो त्वमग्रमिन्द्रादिभ्यः पूर्वं मधूनां मधुररसानां सोमानां सम्बन्धिनं सुतमभिषुतं रसं पिब । कुत्रेति तदुच्यते । दिविष्तिषु दिवः स्वर्गस्य प्रापकेषु यज्ञेषु । यद्वा । अस्माकं दिवः स्वर्गस्यैषनेषु निमित्तेशु । त्वं हि त्वं खलु पूर्वपा असि । हिशब्दो देव दधिषे पूर्वपेयम् । ऋग्वे. ७-९२-१ । इत्यादि मन्त्रान्तरप्रसिद्धिद्योतनार्थः । वायोरग्रपानं देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयमित्यादिब्राह्मणे । ऐ. ब्रा. २-२५ । स्पष्टमाम्नातम् । तत्र हि वायुराजिं प्रथमं धावित्वाग्रपानं लब्धवान् ॥ १ ॥