यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।
तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ॥
यः । त॒स्तम्भ॑ । सह॑सा । वि । ज्मः । अन्ता॑न् । बृह॒स्पतिः॑ । त्रि॒ऽस॒ध॒स्थः । रवे॑ण ।
तम् । प्र॒त्नासः॑ । ऋष॑यः । दीध्या॑नाः । पु॒रः । विप्राः॑ । द॒धि॒रे॒ । म॒न्द्रऽजि॑ह्वम् ॥
यस्तस्तम्भेत्येकादशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । दशमी जगती । दशम्येकादश्याविन्द्राबृहस्पतिदेवताके शिष्टा नव बार्हस्पत्यः । अत्रानुक्रमणिका । यस्तस्तम्भैकादश बार्हस्पत्यमन्त्ये ऐन्द्र्यौ चोपान्त्या जगती । आभिप्लविकेषूक्थेषु तृतीयसवने ब्राह्मणाच्छंसिनः स्तोमव्रुद्धाविदं सूक्तमावापार्थम् । तथा च सूत्रम् । यस्तस्तम्भ यो अद्रिभित् । आ. ७-९ । इति । आद्ये ब्रुहस्पतिसवने मरुत्वतीयनिष्केवल्ययोः सूक्तमुखीये । सूत्रितं च । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । आ. ९-५ । इति ॥
यो बृहस्पतिर्बृहतो देवस्य यज्ञस्य वा पालयिता देवः सहसा बलेन ज्मः पृथिव्या अन्तान् । दश दिश इत्यर्थः । तानिव् तस्तम्भ । विविधं स्तम्भितवान् । नियमितवान् । त्रिषधस्थस्त्रिषु स्थानेषु वर्तमानो रवेणैवं तिष्ठतेत्यनेन शब्देन तं देवं प्रत्नासः पुराणा ऋषयोऽतीन्द्रियद्रष्टारो दीध्याना दीप्यमाना विप्रा मेधाविनो यजमानादयः पुरो दधिरे । पुरुस्तात्स्थापितवन्तः स्तुत्यादिना । मन्द्रजिह्वं मादनजिह्वं मोदनजिह्वं ॥ १ ॥