तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभि॑ः ॥
तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रऽचे॑तसः ।
छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥
तद्देवस्येति सप्तर्चमष्टमं सूक्तं वामदेवस्यार्षं जागतं सावित्रम् । तथा चानुक्रम्यते । तद्देवस्य सावित्रं तु जागतमिति । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रितम् । तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रः । आ. ७-७ । इति ॥
सवितुः प्रेरकस्य देवस्य वार्यं वरणीयं महत्पूज्यं तद्धनं वृणीमहे । प्रार्थयामः । असुरस्य । असुर्बलम् । तद्वतः प्रचेतसः प्रकृष्टमतेः । देवस्येति सम्बन्धः । येन धनेन युक्तः सन् छर्दिः । गृहनामैतत् । गृहोपलक्शितं धनजातं दाशुषे हविर्दत्तवते यजमानाय त्मनात्मनैव यच्छति तच्छर्दिर्महान्देवः सविताक्तुभी रात्रिभिः । एतदह्नामप्युपलक्शणम् । सर्वैर्दिवसैः सर्वेषु दिवसेसु नोऽस्माकमुदयान् । उद्यच्छतु । करोत्वित्यर्थः । यद्वा । छर्दिरिति तेजोनाम । तत्तेज उद्यच्छत्विति ॥ १ ॥