अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।
घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥
अस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः ।
घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । श्रि॒तः ॥
हेअग्ने मात्रोररण्योः स्वजनननिमित्तत्वादरणीमातरवित्युच्येते ताभ्यां असंमृष्टः अबाधितएवजायसे प्रादुर्भूतोभवसि मंद्रः सर्वैःस्तुत्यः कविः क्रान्तः सर्वत्रव्याप्तः अथवा मेधावी शुचिस्त्वं विवस्वतः अग्निहोत्रार्थं गृहे विशेशेणवसतोयजमानात् उदतिष्ठः उदितो भवः पूर्वेमहर्षयः त्वा त्वां घृतेन अवर्धयन् वृद्धिमनयन् हेआहुत आहुतिभिर्हुत ते तवदिवि अन्तरिक्षे श्रितोव्याप्तः धूमःकेतुः प्रज्ञापकोअभवत् अग्र्यनुमापकत्वात् धूमस्य ॥ मात्रोः उदात्तयणोहल् पूर्वादितिविभक्तेरुदात्तत्वम् । मन्द्रः मदिस्तुतिमोदमदस्वप्रकान्तिगतिषु अत्रस्तुत्यर्थादस्मात् स्फायितंचीत्यादिनारक् अन्तोदात्तः । कविः कमेरिन् सर्वधातुभ्यइतीन् प्रत्ययः बाहुलकान्मकारस्यवत्वंरेफलोपश्च व्यत्ययेनान्तोदात्तत्वम् । उदतिष्ठः उत्पूर्वादूर्ध्वकर्मवाचिनस्तिष्ठतेरात्मनेपदाभावः । विवस्वतः विपूर्वाद्वसतेःसंपदादिलक्षणोभावेक्विप् तदस्यास्तीतिमतुप् मादुपधायाश्चेतिवत्वं मतुपोनुदात्तत्वाद्धातुस्वरः ॥ ३ ॥