त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः ।
अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चम् ॥
त्यम् । चि॒त् । अर्ण॑म् । म॒धु॒ऽपम् । शया॑नम् । अ॒सि॒न्वम् । व॒व्रम् । महि॑ । आद॑त् । उ॒ग्रः ।
अ॒पाद॑म् । अ॒त्रम् । म॒ह॒ता । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चम् ॥
उग्रः उद्गूर्णबलः इन्द्रोमहि महान्तं त्यंचित् तमेववृत्रं आददाददौ प्रत्यग्रहीत् कीदृशं अर्णं ग्न्तारं जलंमेघंवा आवृत्यशयानं शयनंकुर्वन्तं स्थितवन्तमित्यर्थः मधुपं मधुनोंभसः पातारं पालयितारं असिन्वंसपत्नानामवक्षेप्तारं अस्यतेरिदंरूपं वव्रं वृण्वन्तं सर्वमप्याच्छादयन्तं सइमान् लोकानवृणोद्यदिमान् लोकानवृणोत्तद्वृत्रस्यवृत्रत्वमितिहितैत्तिरीयकम् । तदनंतरमिन्द्रः दुर्योणे संग्रामे महताप्रभूतेनवधेन वज्रेण अपादं पादरहितं अत्रममात्रं परिप्राणरहितं मृध्रवाचं हिंसितवागिन्द्रियं जृंभाभिभूतमित्यर्थः वृत्रंन्यवृणक् नितरामहिंसीत् तस्माज्जंजभ्यमानात् अग्नीषोमौ निरक्रामतां प्राणापानौवाएनंतदुज्जिहातामितिहितैत्तिरीयकम् ॥ ८ ॥