ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते ।
या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ ।
या॒दृश्मि॑न् । धायि॑ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊं॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥
इयमाग्नेयीसौरीवा हेदेव ज्यायांसं अतिशयेनप्रवृद्धं अस्य यतुनस्य यततिर्गतिकर्मा गन्तुरस्य सूर्यस्य कर्मणिषष्ठ्यौ अमुं गन्तारं केतुना प्रज्ञापकेनकर्मणा उदयादिलक्षणेनविशिष्ठं ऋषिस्वरं ऋषिभिःस्तुत्यं त्वांचरतिगच्छति भजते यजमानः केनसाधनेन यासुस्तुतिषु तेत्वदीयं नामनमनं नामकंवारूपंवर्ततेताभिरित्यर्थः यद्वा अस्य यतुनस्य गमनशीलस्यतव केतुना तमोनिर्हरणादिकर्मणा विशिष्टंत्वांचरति यादृश्मिन् यादृशेकामेधायि धत्ते कर्तरिचिण् सामर्थ्यान्मनः गम्यते तंयथानिर्देशंप्रति निर्दिष्टव्यत्वात्ता- दृशमित्यर्थोज्ञातव्यः तादृशंकामं अपस्यया कर्मणा हविः स्तुत्यादिलक्षणेन विदत् विन्दते यउ यएव स्वयं अनन्यप्रेरितः सन् स्वमनीषयैव वहते धारयतिफलं सः अरं अलं अत्यर्थं करत् करोतीतिशेषः अथवा यउ यएव स्वयंवहते स्वयमेवानुतिष्ठति सोत्यर्थंकुर्यात् नह्यन्येनकारितंफलवद्भवति ॥ ८ ॥