दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥
दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ।
आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥
देवं द्योतमानं सवितारं सर्वस्याभ्यनुज्ञातारं वः स्वामित्यर्थः यद्वा होतुरिदंवाक्यं वोयजमानेभ्योयुष्मभ्यमर्थाय अद्य इदानीं आईषेउपगच्छामि भगंच भजनीयंदेवं आयोर्मनुष्यस्य यजमानस्य रत्नं रमणीयं हविर्विभजन्तम् भगोवांविभजत्वितिहिभगस्यविभजनंप्रसिद्धं रायोविभक्तासंभरश्चवस्वः । भगोविभक्ताशवसेतिचश्रुतिः । यद्वा चतुर्थ्यर्थेषष्ठी यजमानार्थं रत्नं रमणीयंधनं विभजन्तं हेनरा नेतारौ हेपुरुभुजा पुरुभुंजातेइतिपुरुभुजौ अश्विना अश्विनौ वां युवां दिवेदिवे प्रतिदिनं आववृत्यां आवर्तयामिअस्मदभिमुखं सखीयन् युवयोः सखित्वमिच्छ्न् चिदितिपूरणः ॥ १ ॥