ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः ।
म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥
ते । स्य॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः ।
म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥
हेमरुतः स्पंद्रासः स्पन्दनशीलाः उक्षणोजलस्यसेक्तारश्च नेतिचार्थे यस्मात्स्पन्द्राः अन्येषांतस्मात् शर्वरीः शर्वर्योरात्रयः कालावयवा- नित्यर्थः तानतिस्कन्दन्ति अतिक्रम्यगच्छन्ति नित्याइत्यर्थः यस्मादेतेएवंविधाः तस्मात् मरुतां अध अधुना महस्तेजोदिविद्युलोके क्षमा क्षमायांभूमौचवर्तमानं मन्महे स्तुमः ॥ ३ ॥