कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः ।
ए॒ना यामे॑न म॒रुतः॑ ॥
कस्मै॑ । अ॒द्य । सुऽजा॑ताय । रा॒तऽह॑व्याय । प्र । य॒युः॒ ।
ए॒ना । यामे॑न । म॒रुतः॑ ॥
अद्यास्मिन्दिने कस्मै सुजाताय रातहव्याय दत्तहविष्काय प्रययुः प्रकर्षेणगच्छेयुः एना अनेन यामेन रथेनमरुतः ॥ १२ ॥