तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ ।
सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥
तम् । नाक॑म् । अ॒र्यः । अगृ॑भीतऽशोचिषम् । रुश॑त् । पिप्प॑लम् । म॒रु॒तः॒ । वि । धू॒नु॒थ॒ ।
सम् । अ॒च्य॒न्त॒ । वृ॒जना॑ । अति॑त्विषन्त । यत् । स्वर॑न्ति । घोष॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ ॥
हेमरुतोअर्योगंतारोयूयं तं प्रसिद्धंनाकमादित्यं नास्मिन्नकमस्तीतिनाकः तं अगृभीतशोचिषं असुरैरनपहृततेजस्कं तं रुशच्छुभ्रवर्णं पिप्पलमुदकं विधूनुथ विविधंचालयथ अयंद्विकर्मकः यद्यदा वृजना बलानि समच्यन्त संगताबलिनोभवथ हविर्भिरस्मद्दत्तैरितिभावः पश्चादतित्विषन्त दीप्ताभवथ उभयत्रपुरुषव्यत्ययः यद्वा यदा असुरावृजनाबलैः सस्मच्यन्त अतित्विषन्त तदा घोषं भयजनकं शब्दं विततं विस्तृतं स्वरन्ति कुरुतेत्यर्थः ऋतायवउदकमिच्छन्तोयूयं यद्वोत्तरार्धंकुत्विग्यजमानपरतयाव्याख्येयः यद्यदा ऋतायवोयज्ञकामाः यजमानादयः यदा समच्यन्त संगताः वृजना बलानि अतित्विषन्त च स्वरन्ति घोषं स्तोत्रं विततं तदानीं पिप्पलं विधूनुथेतिसंबन्धः ॥ १२ ॥