गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।
अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥
गवा॑म्ऽइव । श्रि॒यसे॑ । शृङ्ग॑म् । उ॒त्ऽत॒मम् । सूर्यः॑ । न । चक्षुः॑ । रज॑सः । वि॒ऽसर्ज॑ने ।
अत्याः॑ऽइव । सु॒ऽभ्वः॑ । चार॑वः । स्थ॒न॒ । मर्याः॑ऽइव । श्रि॒यसे॑ । चे॒त॒थ॒ । न॒रः॒ ॥
हेमरुतः यूयं गवांश्रृगमिव उत्तममुत्कृष्टं उष्णीषपद्दादिकं श्रियसे श्रिये धारयथ इतिशेषः सूर्योन सूर्यइव समथा रजसः तेजसोविसर्ज- ने च्क्षुः दर्शनसाधनं मंडलं धत्ते तद्वद्रजसोवृष्टेर्विसर्जने विसर्जनाय चक्षुः सर्वस्यप्रकाशकंतेजोधारयथ अत्याइवाश्वाइव सुभ्वः सुष्ठुसर्वत्र- भवन्तः वेगवन्तः चारवोदर्शनीयाः स्थन भवथ मर्यामर्त्यायजमानाइव तेयथा श्रियसे जानन्ति यज्ञादिकंतद्वछ्रियेचेतथ जानथ हेनरोने- तारोमरुतः ॥ ३ ॥