को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् ।
तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥
कः । नु । वा॒म् । मि॒त्र॒ । अस्तु॑तः । वरु॑णः । वा॒ । त॒नूना॑म् ।
तत् । सु । वा॒म् । आ । ई॒ष॒ते॒ । म॒तिः । अत्रि॑ऽभ्यः । आ । ई॒ष॒ते॒ । म॒तिः ॥
हेमित्र वां युवयोर्मध्ये त्वंचवरुणोवा कोनुअस्तुतः सर्वैर्स्तूयमानः कोस्ति उभौअपिस्तुत्यौइत्यर्थः तनूनामितितृतीयार्थेषष्ठी तनुभिस्तु- तिभिरस्तुतइतिसंबंधः अत्रमित्रशब्देनमित्रस्यैकस्यैवसंबोधनं वरुणेळास्वन्तरित्यत्रेवात्रद्विवचनसूचकस्याकरस्यानाम्नानात् लोकेषु बहु- षुसंनिहितेषु एकमेवसंबोध्य युवयोरिदंयुष्माकमिदमितिप्रयुंजते तत् तस्मात् यस्मात्सर्वेस्तुवन्तितस्मात् तनूनामित्येतद्भ्यवहितमपिउत्त- रत्रवायोज्यं तनूनामल्पमतीनां अस्माकंमतिःस्तुतिर्वा युवां आईषते अभिगच्छाति अत्रिभ्योत्रिगोत्रेभ्यः अस्मभ्यं अस्मदीयमतिः एषते आदरार्थंपुनर्वचनं ॥ ५ ॥
प्रवोमित्रायेतिपंचर्चंद्वादशंसूक्तं आत्रेयस्ययजतस्यार्षं गायत्रं मैत्रावरुणं तथाचानुक्रम्यते-प्रवोगायत्रमिति । अग्निष्टोमेप्रातःसवने मै- त्रावरुणशस्त्रे एतत्सूक्तं सूत्रितंच-प्रवोमित्रायप्रमित्रयोर्वरुणयोरिति । अभिप्लवषळहे पृष्ठ्यषडहेच स्तोमनिमित्तावापार्थमिदमादीनि- द्वितीयवर्जितानि चत्वारिसूक्तानि तथैवसूत्रितं-प्रवोमित्रायेतिचतुर्णांद्वितीयमुद्धरेदिति ।