प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् ।
न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युत॒ः प्र स्य॒न्द्रासो॒ धुनी॑नाम् ॥
प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒ऽशुक्वा॑नः । सु॒ऽभ्वः॑ । ए॒व॒याम॑रुत् ।
न । येषा॑म् । इरी॑ । स॒धऽस्थे॑ । ईष्टे॑ । आ । अ॒ग्नयः॑ । न । स्वऽवि॑द्युतः । प्र । स्य॒न्द्रासः॑ । धुनी॑नाम् ॥
येमरुतोबृहतोदिवोद्युलोकदागच्छन्तः प्रश्रृण्विरे श्रृण्वन्ति तान्मरुतोगिरा एवयामरुत् स्तुतवान् कीदृशास्ते शुशुक्वानोदीप्ताः सुभ्वः सुष्ठुभवन्तः येषांमरुतां सधस्थे सहस्थाने स्वकीयेनिवासे तिष्ठतां इरी ईरिता प्रेरिता नेष्टे आनेशतेच चालयितुं आइतिचार्थे अग्नयोन अग्नयइव स्वविद्युतःस्वयमेवविद्योतमानाः धनीनां नदीनां स्पंद्रासः वर्षणेनचालयितारश्च ॥ ३ ॥