अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् ।
स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥
अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒ऽश॒व॒सः॒ । त्वे॒षम् । शवः॑ । अ॒व॒तु॒ । ए॒व॒याम॑रुत् ।
स्थाता॑रः । हि । प्रऽसि॑तौ । स॒म्ऽदृशि॑ । स्थन॑ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः॑ । न । अ॒ग्नयः॑ ॥
हेमरुतोवोयुष्माकं महिमा अपारोनवधिकः हेवृद्धशवसः प्रवृद्धबलाः त्वेषं दीप्तं शवोयुष्माकंबलमवतुरक्षतु एवयामरुतंमां द्वितीयै- कवचनस्यलुक् यूयंप्रसितौ प्रबलबन्धने नियमनवतियज्ञे संदृशि संदर्शनेनिमित्ते स्थातारोहि स्थाननियमेनतिष्ठन्तोस्थन भवथखलु तेनो- स्मान्निदोनिन्दकाच्छत्रोः सकाशादुरुष्यतरक्षत अग्नयइवशुशुक्वांसोदीप्ताःयूयमिति ॥ ६ ॥