शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥
शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।
तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥
हेइन्द्र शूरः त्वदनुगृहीतोवीरः शरीरैरंगैः शूरंवा वीरमपि वनते हन्ति वेत्ययमपीत्यस्यार्थेवर्तते यद्वा वेत्यनेनविकल्पाभिधायकेनाशू- रोवात्वदनुगृहीतःसन् शूरंवनते कदावनतइति एतदाह—तनूरुचा शरीरेण शोभमानौ परस्परविरोधिनौ तरुषे शुद्धे यद्यदा कृणवैते सं- ग्रामंकुर्वाते यद्यदाच तोकेवा पुत्रनिमित्तेवा गोषुनिमित्तभूत्दासुवा तनये पौत्रेनिमित्तभूतेवा अप्सु उदकेषुनिमित्तेषुवा उर्वरासु सर्वस- स्याढ्यासुभूमिषुनिमित्तासु क्रन्दसी क्रन्दमानावा क्रोशन्तौ विब्रवैते विवदेते हेइन्द्र पुत्रादिलोआभजयस्त्वदनुगृहीतस्यभवतीत्यर्थः ॥ ४ ॥