नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।
इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥
नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ ।
इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥
हेइन्द्र त्वं नूनं अद्य नोस्माकं स्याः अस्मदीयोभव अपरायच अपरस्मिन्नन्यस्मिन्नपि काले अस्मदीयोभव उत अपिच त्वं नोस्माकं अभिष्टावभिगमनेसति मृळीकः सुखयिताभव इत्था इत्थमनेनप्रकारेण गृणन्तःस्तुवन्तोवयं गोषतमाः गवांसंभक्तॄतमाः सन्तः महिनस्य महतस्तवसंबन्धिनि दिवि द्योतमाने पार्येदुःखस्यपारके शर्मन् शर्मणि सुखे स्याम वर्तमानाभवेम ॥ ५ ॥
संचत्वेजग्मुरितिपंचर्चमेकादशंसूक्तं शुनहोत्रस्यार्षमैन्द्रंत्रैष्टुभं संचत्वइत्यनुक्रान्तम् । तृतीयेछान्दोमिकेहनिइदमादिकेद्वेसूक्ते सूत्रितंच— संचत्वेजग्मुरितिसूक्तेइति । महाव्रतेपिनिष्केवल्ये उक्तोविनियोगः ।