म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्व॑ः ।
अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥
म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ ।
अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥
मन्द्रस्य मोदनस्य मदकरस्यवा कवेः विक्रान्तस्य दिव्यस्य दिविभवस्य वह्नेर्वोढुः विप्रमन्मनः विप्रामेधाविनोमन्मः स्तोतारोयस्य- सःतथोक्तःतस्य वचनस्य वचनीयस्य स्तुत्यस्य तस्यसर्वत्रप्रसिद्धस्य सचनस्य सेव्यस्य एवंभूतस्य मध्वोमधुनः सोमस्य क्रियाग्रहणंकर्त- व्यमितिकर्मणःसंप्रदानत्वाच्चतुर्थ्यर्थेषष्ठी एवंभूतं नोस्मदीयंसोमं हेइन्द्र त्वं अपाःपिब अपिच हेदेव द्योतमानेन्द्र गृणते स्तुवते तृतीयार्थे- चतुर्थी स्तुवतमयागोअग्राः गावः अग्रेप्रमुखेयासांतादृशाइषोन्नानि युवस्व संयोजय ॥ १ ॥