मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् २३

संहिता

अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः ।
अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥

पदपाठः

अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ ।
अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥

सायणभाष्यम्

अयंसोमः उषसःउषःकालान् सुपत्नीः शोभनः पतिः पालकः सूर्योयासामुषसांतादृशीरकृणोत् अकरोत् अयमेवसूर्येसूर्यमंडलेन्तर्मध्ये- ज्योतिस्तेजः अदधात् निहितवान् त्रिधातुसवनत्रयरूपेणत्रिप्रकारं अयंलतारूपः सोमः दिविद्युलोके रोचनेषुरोचमानेषु त्रितेषुतृतीये- स्थाने ततेषुविस्तृतेषुदेवेषुनिगूह्ळं नितरांगूढंअदृश्यतयावर्तमानं अमृतंअमृतत्वकारणं पीयूषंविन्दत् अविन्द्रत्अलभत हेइन्द्रत्वत्साहा- य्यादेवमेवंसोमः कृतवानीतीन्द्रस्यस्तुतिरधिगंतव्या यद्वा इदंशब्देनइन्द्रएवपरामृश्यते अयमिन्द्रः उषसः शोभनपतिकाअकरोत् अयमेव- सूर्येतज्ज्योतिरदधात् दिविद्युलोकेरोचमानेषुत्रिस्थानगतेषुदेवेषुमध्ये अयमेवेन्द्रःत्रिधातु सवनत्रयात्मनात्रिप्रकारंनिगूढं पात्रैः संवृतं अमृतंअमरणहेतुभूतंसोमंअविन्ददलभत ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०