मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् १२

संहिता

यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् ।
अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥

पदपाठः

यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् ।
अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्दिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥

सायणभाष्यम्

यत्र यस्मिन्काले शूरासःशूराः शौर्यवन्तोयोद्धारः तन्वः स्वकीयानिशरीराणिवितन्वते विस्तारयन्ति स्वामिनोजयायशत्रूणांपुरतो- दर्शयन्ति तथायस्मिन्कालेप्रियाप्रियाणि शर्मशर्माणि स्थानानि पितॄणांजनकानांसंबन्धीनि तैरर्जितानीतियावत् एतानिचवितन्वते शत्रूणांपुरस्तात् विस्तारयन्ति परित्यजन्तीतियावत् अधस्मअस्मिन् कालेतन्वेशरीरायतनेतनयायच छर्दिः छादनंआयुधानांनिवारकं- कवचं अचित्तं शत्रुभिरज्ञातं यथाभवतितथायच्छ प्रयच्छ शत्रुज्ञानात्पूर्वमेवदेहोत्यर्थः अपिचद्वेषोद्वेष्टुन् शत्रुन् यावय तेभ्योवियोजय ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९