प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् ।
स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥
प्र । वी॒राय॑ । प्र । त॒वसे॑ । तु॒राय॑ । अज॑ । यू॒थाऽइ॑व । प॒शु॒ऽरक्षिः॑ । अस्त॑म् ।
सः । पि॒स्पृ॒श॒ति॒ । त॒न्वि॑ । श्रु॒तस्य॑ । स्तृऽभिः॑ । न । नाक॑म् । व॒च॒नस्य॑ । विपः॑ ॥
वीरायविक्रान्तायविविधंशत्रूणामीरकायवा मरुद्गणाय प्राज हेस्तोतः स्तुतिंप्रगमय तथा तवसेबलिनेतुरायक्षिप्रगमनायचतस्मैगणा- यप्राज तत्रदृष्टान्तः—पशुरक्षिःपशुपालकः यूथेव सयथागोयूथानिसायंकालेअस्तंगृहंशीघ्रंगमयति तद्वत् शीघ्रंस्तुतिंप्रेरयेत्यर्थःसचमरुद्गणः वचनस्यवक्तुःविपः विप्रस्यमेधाविनः स्तोतुः श्रुतस्य क्रियाग्रहणमपिकर्तव्यमितिकर्मणः संप्रदानत्वाच्चतुर्थ्यर्थेषष्ठी श्रुतंश्रोतव्यंस्तोत्रं तन्वि आत्मीयेशरीरेपिस्पृशतिस्पर्शयतु संश्लेषयतु तत्स्तोत्रं हृद्गतंभवत्वित्यर्थःस्पर्शनेदृष्टान्तः—स्तृभिर्ननाकं यथानक्षत्रैर्नाकमन्तरिक्षंस्पर्शयति- संश्लेषयति तद्वत् ॥ १२ ॥