वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः ।
अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः ।
अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥
चन्द्ररथाःकान्तिरथाः चन्द्रश्चन्दतेःकान्तिर्मणइति यास्कः । ता उषसः तत् तदानीं प्रातःकाले बृहतो बृंहणशीलस्य यज्ञस्य अग्रं मुखं नयन्तीः संपादयंत्यः अरुणयुग्भिररुणवर्णयुक्तैरश्वैः विययुः विस्तीर्णं यान्ति चित्रं यथाभवति तथाभान्ति च ऊर्म्यायाः रात्रेः अक्तुः ऊर्म्येति रात्रिनामसु पाठात् तमो विबाधन्ते सम्यगपनयन्ति च ॥ २१ ॥