वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् ।
मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥
वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् ।
मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥
तत्प्रसिद्धं समानमेकरूपं मरुतः सर्वदा समानरूपाः तथा च निगमान्तरं-अज्येष्ठासो अकनिष्ठासएतइति । नाम स्थिराणामपि नामकं धेनु प्रीणयितृ पत्यमानं सर्वदा गच्छत् वपुर्मरु तां रूपं चिकितुषे विदुषे स्तोत्रे नु क्षिप्रं अस्तु प्रादुर्भवतु । चिदिति पूरकं किं च तद्रूपं मर्त्येषु मर्त्यलोके अन्यदोषधिवनस्पत्यादिकं दोहसे कामान् दोग्धुं पीपाय आप्याययति । किं च मरुतामेव निर्देशात् पृश्नरन्तरिक्षं सकृत्संवत्सरस्य वर्षासु शुक्रं शुक्लवर्णं ऊधः उदकं दुदुहे क्षरति ॥ १ ॥