अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।
अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥
अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ॒ । अस्कृ॑धोयु ।
अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥
हे मित्रावरुणौ अवोः अवतोर्षां युवयोरभिष्टौ अभिगमने छर्दिषः गृहाय सुखाय वा चतुर्थ्यर्थे षष्ठी युवामभीगतेषु स्तोतृषु युवोः युवयोः संबन्धि युवाभ्यां देयं तद्गृहादिकं अस्कृधोयु अविच्छिन्नं भवति । तथा च यास्कः अस्कृधोयुरकृध्वायुःकुध्वितिह्रस्वनामनिकृतं भवती- ति । इत्था सत्यमेव कदा मित्रावरुणयोर भिगमनमं इत्यतआह यद्यदा गावः स्तुतयः अनस्फुरान् अनुस्फुरेयुः यदाच ऋजिप्यं ऋजुगा- मिनं धृष्णुं शत्रूणां धर्षकं वृषणं कामाणं वर्षितारं सोमं रणे रमणे यज्ञे यनजन यजमाना यंज्यः ॥ ११ ॥
श्रुष्टीवामित्र्येकारसर्द्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावरुणं तथाचानुक्रम्यते-श्रुष्टीवामैन्द्रावरुणमुपांत्येजगत्याविति । प्रसम्राजे इन्द्रावरुणासुतपावित्येते जगत्यौ शिष्टास्त्रिष्टुभः इन्द्रावरुणौ देवता आभिप्लविकेषूक्थ्येषु तृतीयसवने होत्रकशस्त्रेषु स्तोमवृद्धौ मैत्रावरुणस्येदमावापार्थं सूक्तं सूत्रितं च-श्रुष्टीवांयज्ञोयुवांनरेति । तृतीयसवने इन्द्रावरुणासुतपाविमंसुतमितिप्रशास्तुः प्रस्थितयाज्या सूत्रितं च-इन्द्रावरुणासुतपाविमंसुत मिन्द्र श्चसोमंपिबतबृहस्पतइति । उक्थ्ये तृतीयसवने इन्द्रावरुणामधुमत्तमस्येति । मैत्रावरुणस्य शस्त्रयाज्या सूत्रितं च इन्द्रावरुणा मधुमस्येतियाज्येति ।