मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७०, ऋक् ४

संहिता

घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।
उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥

पदपाठः

घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । अ॒भीवृ॑ते॒ इत्य॒भिऽवृ॑ते । घृ॒त॒ऽश्रिया॑ । घृ॒त॒ऽपृचा॑ । घृ॒त॒ऽवृधा॑ ।
उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । हो॒तृ॒ऽवूर्ये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । विप्राः॑ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये॑ ॥

सायणभाष्यम्

द्यावापृथिवी द्यावापृथिव्यौ घृतेनोदकेन अभिवृते आवृते भवतः घृतश्रिया उदकं श्रयंत्यौच घृतपृचा घृतसंपृक्तेच घृतवृधा घृतं वर्धयंत्यौ च उर्वी विस्तीर्णे पृथ्वी प्रथिते च भवतः होतृवूर्ये यज्ञे पुरोहिते यजमानैः पुरस्कृते च भवतः विप्राः प्राज्ञाः स्तोतारः ते इत् द्यावापृथि- व्यावेव इष्टये यज्ञाय होत्रा इष्टिरिति यज्ञनामसु पाठात् सुम्रं सुखं ईळते याचन्ते । सुखे सति हि यागाः प्रवर्तन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४