वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ ।
वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥
हे सवितः अस्मभ्यं वामं धनं अद्य सावीः सुव श्वश्च वामं धनं प्रसुव किं बहूक्त्या दिवेदिवे प्रतिदिनं वामं धनं प्रसुव हे देव हि यस्मात् क्षयस्य निवासभूतस्य भूरेः प्रभूतस्य वामस्य दातासि अतो वयं अया अनया धिया स्तुत्या वामभाजो धनवन्तः स्याम भूयास्म उ इति पूरणः ॥ ६ ॥
इन्द्रासोमामहीतिपंचर्चमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं इंद्रासोमदेवताकं अनुक्रम्यतेच-इन्द्रासोमापंचैन्द्रासोममिति सूक्तविनि- योगोलैंगिकः ।