मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ३

संहिता

प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।
त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑ः ॥

पदपाठः

प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ ।
त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥

सायणभाष्यम्

यविष्ठ युतम हे अग्ने प्रेद्धः प्रकर्षेण समिद्धस्त्वं अजस्रया सरणशीलया सूर्म्या ज्वालया नोस्मदर्थं पुरः पुरस्तादाहवनीयायतने दीदिहि दीप्यस्व त्वां शश्वन्तो बहवः वाजाः अन्नानि हवींषि उपयन्ति उपगच्छन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३