ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒ मन्त्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् ।
प्र ये विश॑स्ति॒रन्त॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥
ए॒ते । द्यु॒म्नेभिः॑ । विश्व॑म् । आ । अ॒ति॒र॒न्त॒ । मन्त्र॑म् । ये । वा॒ । अर॑म् । नर्याः॑ । अत॑क्षन् ।
प्र । ये । विशः॑ । ति॒रन्त॑ । श्रोष॑माणाः । आ । ये । मे॒ । अ॒स्य । दीध॑यन् । ऋ॒तस्य॑ ॥
एते मदीयाः पुरुषाः द्युम्नेभिरन्नैः विशं पोष्यवर्गं आतिरन्त वर्धयन्ति । अथवा द्युम्नेभिर्यशोभिः विश्वं जगदातिरन्त अभ्यगछन्नित्यर्थः । क इत्यत आह ये नर्या मनुष्याः मन्त्रं स्तोत्रं स्तुत्यंवा अरं पर्याप्तं अतक्षन् समस्कुर्वन् । वेति समुच्चये ये च विशो जनाः श्रोषमाणाः श्रृणो- तेः सन्यङोरिति द्वित्वं इकोझलिति सनः कित्वं च सर्वे विधयश्छन्दसिविकल्पन्त इति नभवतः ज्ञाश्रुस्मृदृशां सनः इत्यात्मनेपदं च तिरन्त वर्धयन्ति । मे मदिया ये वा ऋतस्यास्य सत्यमिममग्नि कर्मणिषष्ठी मानुषाणामश्नीयादितिवत् आदीधयन् आदीषयन् ॥ ६ ॥