म॒न्द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।
स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामत॑न्द्रो दू॒तो य॒जथा॑य दे॒वान् ॥
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । यवि॑ष्ठम् । अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु॑ ।
सः । हि । क्षपा॑ऽवान् । अभ॑वत् । र॒यी॒णाम् । अत॑न्द्रः । दू॒तः । य॒जथा॑य । दे॒वान् ॥
उशिजः कामयमानाः विशोमनुष्याः मन्द्रं स्तुत्यं होतारमाह्वातारं यविष्ठं युवतममग्निं अध्वरेषु यागेषु ईळते स्तुवन्ति । हि यस्मात् कारणात् सोग्निः क्षपावान् रात्रिमान् रात्रौ खल्वग्नये अग्निहोत्रं हूयते रयीणां सूर्यस्य रयिमतां हविष्मतां यजमानानां देवान् यजथाय यष्टुं अतन्द्रस्तन्द्रारहितोभवत् । तथा च श्रूयते यस्मादृऊतोभवत्तस्माद्विशस्तमध्वरेईळतइति ॥ ५ ॥
महाँअसीति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं महानित्यनुक्रांन्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।