त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्त॒ः सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥
त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः ।
यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥
हे अग्ने अजिरं प्रगामिनं त्वां मानुषासो मानुषाः हविष्मन्तो यजमानाः सदमित् सदैव दूत्याय दूतकर्मणे हविर्वहनाय ईळते याचन्ते । किमर्थं इत्यतआह यस्य हविष्मतो बर्हिर्देवैःसार्धं आसदः त्वं अधितिष्ठसि अस्मै हविष्मते अहानि सुदिना सुदिनानि शोभनदिनानि भवन्ति ॥ २ ॥