ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒ः पव॑न्ते ।
प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥
ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते ।
प्रति॑ । यत् । चष्टे॑ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥
हे इन्द्र दुर्मित्रासो दुष्टमित्रभूता बाधकाः क्षितयोजनाः पवन्ते अभिगच्छन्ते । हिः पूरणः पवतिर्गतिकर्मा तेभ्योधनमाच्छिद्य नोस्मभ्यं एभिः सात्विकैः अहभिरहोभिर्दशस्य देहि किं च अनेनाः एनसां निहन्ता मायी प्रज्ञावान् वरुणोयदनृतं नोस्मासु प्रतिचष्टे अभिपश्यति तदनृतम् । हे इन्द्र त्वत्प्रसादात् द्विता द्विधा अवसात् अवस्यतु विमोचयतु । तथाचयास्कः-स्यतिरुपसृष्टोविमोचनइति ॥ ४ ॥