मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः ।
त्वया॑ व॒यं प्र॒वत॒ः शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥
मा । नः॒ । अज्ञा॑ताः । वृ॒जनाः॑ । दुः॒ऽआ॒ध्यः॑ । मा । अशि॑वासः । अव॑ । क्र॒मुः॒ ।
त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥
हे इन्द्र अज्ञाताः अज्ञातगमनाः वृजनाः हिंसकाः दुराध्यः अशिवासः नोस्मान् मावक्रमुः मावचक्रमुः हे शूर त्वया वयं वसिष्ठाः प्रवतः प्रवणकाः संतः शश्वतीर्बह्वीरपोतितरामसि अतितरामः ॥ २७ ॥
श्वित्यंचइति चतुर्दशर्चं षोडशं सूक्तं अत्रेयमनुक्रमणिका-श्वित्यंचः षळूनासंस्तवोवसिष्ठस्य सपुत्रस्येन्द्रेणवासंवादइति । आदितो नवानां वसिष्ठऋषिः वसिष्ठपुत्राणां स्तूयमानत्वात् तएवदेवता विद्युतोज्योतिरित्यादिभिः दशम्यादिभिः सपुत्रैर्वसिष्ठःस्तूयते अतोव- सिष्ठोदेवता तएवऋषयः यातेनोच्यतइतिन्यायात् अनुक्तत्वान्त्रिष्टुप् ।