दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् ।
पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥
दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् ।
पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥
यदा वसिष्ठस्य पुत्राः सुदासं राजानमयाजन् तदैव पाशद्युम्नाख्योपि राजा सोमान्यष्टुमुद्यमंचकार तदा ते वसिष्ठपुत्राः पाशद्युम्रं तिरस्कृ- त्य तदीये यागे सोमं पिबन्तमिन्द्रं मंत्रबलेन तस्मादाच्छिद्य सुदासयज्ञे स्थापयामासुः तदेतद्वृत्तान्तं कीर्तयन् वसिष्ठः स्वसुताननेन मंत्रेण स्तौति वैशंतं चेशन्तःपल्वलं अत्रवेशन्तशब्देन सोमाधारश्चमसो लक्ष्यते तत्स्थं सोमं पांतं पिबन्तं उग्रमुद्गूर्णमिन्द्रं सुतेन सुदासो- यज्ञेभिषुतेन सोमेन हेतुना तिरः पाशद्युम्नं तिरस्कृत्य दूरादानयन् वसिष्ठामंत्रबलेनानीतवन्तः । इन्द्रोपि वायतस्य वयतः पुत्रस्य पाशद्यु- म्रस्य द्वितीयार्थेषष्ठी वायतंपाशद्युम्रं अतिहाय सुदासोयज्ञे सुतात् अभिषुतात् सोमाद्धेतोः वसिष्ठान् वसिष्ठस्य पुत्रान् अवृणीत पाशद्यु- म्रस्य सोमयागे चमसस्थं सोमं पिबन्नपीन्द्रस्तं पाशद्युम्रं तिरस्कृत्य मंत्रसामर्थ्यबलेन सुदासो यज्ञे आहवनकाले वसिष्ठानाजगामेत्यर्थः ॥ २ ॥